________________
हरिवंशपुराणं ।
६५९
सप्तपंचाशः सर्गः ।
।
ततःस्तंभसहस्रस्थो मंडपोऽस्ति महोदयः । नाम्ना मूर्तिमती यत्र वर्तते श्रुतदेवता ॥ ८६ ॥ तां कृत्वा दक्षिणे भागे धीरैर्बहुश्रुतैर्वृतः । श्रुतं व्याकुरुते यत्र श्रायसं श्रुतकेवली ||८७ तदर्धमानाश्चत्वारस्तत्परीवारमंडपाः । आक्षेपण्यादयो येषु कथ्यते कथकैः कथा ||८८|| तत्प्रकीर्णकवासेषु चित्रेष्वाचक्षते स्फुटं । ऋषयः स्वष्टमर्थिभ्यः केवलादिमहर्द्धयः ||८९॥ तपनीयमयं पीठं ततश्चित्रलताचितं । यत्तद्वल्युपहारेण यथाकालं समर्च्यते ॥ ९० ॥ पीठा श्रीपदद्वारं सरत्नकुसुमोत्करं । मंडलैः पूर्यते मध्ये मार्ग चंदासप्रभैः ॥ ९१ ॥ अभितः स्वाख्यया द्वौ तं मंडपौ स्तः प्रभासकौ । अत्यध्वं राजतो यत्र निधीशौ कामदायिनौ ॥ ९२ ॥ प्रेक्षाशाले विशाले स्तः प्रमदाख्ये ततोंबरे । यत्र कल्पनिवासिन्यो नृत्यंत्यप्सरसः सदा ॥ ९३ ॥ विजयाजिरकोणेषु विलसत्केतुमालिनः । चत्वारो योजनोद्विद्धा लोकस्तूपा भवत्यमी ॥ ९४ ॥ अधोवेत्रासनाकारा झल्लरीसममध्यगाः । उर्ध्व मृदंगसंस्थाना स्वांततालाभनालिकाः || ९५|| स्वच्छस्फटिकरूपास्ते सुव्यंक्तांतर्निवेशकाः । दृश्यते लोकविन्यासो यत्रादर्शतले यथा ॥ ९६ ॥ मध्यलोकस्वरूपांतर्व्यक्तनिर्माणमूर्त्तयः । मध्यलोका इति ख्याता संति स्तूपास्ततः परे ||९७|| मंदरस्तूपनामानो मंदराकारभास्वराः । चतुः कांडचतुर्दिक्षु चैत्या भांति ततोपरे ॥ ९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org