________________
हरिवंशपुराणं ।
सप्तपंचाशः सर्गः। नंदाभद्राजयापूर्णेत्यभिख्याभिः क्रमोदिताः । यज्जलाभ्युक्षिता पूर्वा जाति जानंति जंतवः ॥७३॥ ताः पवित्रजलापूर्णसर्वपापरुनाहराः । परापरभवा सप्त दृश्यंते यासु पश्यतां ॥७४॥ अथ गव्यूतमुद्विद्धं योजनाधिकविस्तृतं । कटीमात्रवरंडस्थकदलीध्वजसंकुलं ॥७५॥ निरंतरविशन्निर्यजनद्वारोच्चतोरणं । त्रिलोकविजयाधानमहो भाति जयाजिरं ॥७६॥ मुक्तावालुकविस्तीर्णप्रवाणसिकतांतरं । सुरत्नकुसुमैश्चित्रं हेमां भौजैस्तदर्चितैः ॥७७॥ तपनीयरसालिप्तस्तपनरिव भूगतैः । तत्र तत्र यथा दैश्यं मंडयंते पृथुमंडलैः ॥७८॥ प्रासादैमंडपैश्वान्यैः सुखावासैः सुशोभते । देवासुरनरापूर्णैस्तत्र तत्र विचित्रितं ॥७९॥ कचिदालेख्य हृद्यानि वेश्मानि कचिदंतरे । पुराणाद्भुतभूतीनि चित्राख्यानान्वितानि च ॥८॥ कचित्पुण्यफलप्राप्त्या पापपाकेन च कचित् । धर्माधर्मगतिं साक्षादर्शयंतीव पश्यतः ॥८॥ दानशीलतपःपूजामारंभास्तत्फलानि च । तद्वियोगविपत्तीश्च तानि श्रद्धापयंत्यमन् ॥८२॥ स्फुरत्पुलकसंसक्तमुक्तादामोन्मिषन्माणः । पताकाघंटिकारावो रमणीयानिलेरितः ॥८३॥ उदंशुरत्नमालेव स्फुरती वीचिरर्णवे । वीक्ष्यते व्योमनींद्राद्यैः कौतुकायेन वीक्षिता ॥८४॥ राजतींद्रध्वजः सोयं तन्मध्ये हेमपीठिका । अलंकुर्वन् यथामूर्तो देहो देवजयश्रियः ।।८५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org