________________
हरिवंश पुराणं ।
६५७
सप्तपंचाशः सर्गः ।
सुरत्नासनमध्यस्था दृष्टॄणां भवदर्शिनः । तद्द्द्वारोभयपार्श्वेषु भांति मंगलदर्पणाः ॥ ६१ ॥ यैः प्रध्वस्तमहाध्वांतप्रभावलयभास्वरैः । भास्वतो भासमुद्भूय भासतो गोपुराण्यलं ॥ ६२॥ विजयादिपुरद्वाःसु द्वास्था तिष्ठति कल्पजाः । यथायथं ज्वलद्भूपा जयकल्याणकारिणः || ६३ || शालास्त्रयोप्यमी त्वेकद्वित्रिक्रोशोच्छ्रयोन्मिताः । मूलमध्यो परिन्यासैस्तदर्धार्धसु सम्मिताः ॥ ६४ ॥ स्वरत्नित्रयहीनोक्तप्रमाणजगतीतलाः । हस्तो द्विद्वाक्षविस्तीर्णाक्षांतरीः कपिशीर्षकाः ||६५ || ततोप्यंतर्वणं नानातरुवल्लीगृहाकुलं । मंचखागिरिप्रेक्षागृहकोटिपराजितं ॥ ६६ ॥ वेदिकावद्धषु कल्याणादिजयाजिरं । कदल्यः कदलीकल्पा प्रकाशतेंऽतरस्थिताः ||६७|| अंतर्नाटकशाला स्यात्ततः कल्याणसप्रभाः । लोकपालविलासिन्यो यत्र नृत्यंति संततं ॥ ६८ ॥ तदंतरे भवत्यन्यतपीठं पीठगुणास्पदं । प्रोदंशुरत्नजालास्ततिमिरावलिमंडलं ॥ ६९ ॥ सिद्धार्थपादपाः संति सिद्धरूपविराजितैः । विटपैर्व्याप्य दिक्प्रांतमिच्छयेव स्थितास्ततः ॥७०॥ स्तूपा द्वादशभूभूषा भूषयं त्यथ मंदिरं । हिरण्मया महामेरुं चत्वारो मेरवो यथा ॥ ७१ ॥ चतुर्दिग्गोपुरद्वारवेदिकालंकृता शुभा । चतस्रो दिक्ष्वथ ज्ञेयाश्चतसृष्वपि वार्षिकाः ॥७२॥
१ व्यासार्धकपिशीर्षका इति क पुस्तके |
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org