________________
हरिवंशपुराणं ।
सप्तपंचाशः सर्गः। प्रीतिकल्याणमध्ये स्युरभितः पंचभूमिकाः । वृत्तशालाः प्रनृत्यंति यत्र भावनयोषितः ॥४८॥ प्राकारोंतः परीयाय द्वितीयो हेमनिर्मितः । पंचभूमिकरत्नश्रीचतुर्गोपुरभूषितः॥४९॥ हटद्धाटकपीठस्था कंबुकंठगुणोज्वलाः । शातकुंभमया कुंभाः सांभोजास्या सहाभसः ॥५०॥ शोभंते तद्विपार्श्वेषु द्वौ द्वौ मंगलदर्शनाः । वेत्रदंडधरा द्वास्थास्तवाःसु भवनाधिपाः ॥५१॥ पुरस्तादोपुराणां च द्वे द्वे नाटकवेश्मनी । पुरस्तात्तु ततो हेमौ द्वौ द्वौ धूपघटौ स्फुटौ ॥५२॥ चतुर्दिक सिद्धरूपाढ्यं द्विर्द्धिः सिद्धार्थपादपं । कल्पवृक्षवनं तत्र वीथ्यंतेषु यथाययं ॥५३॥ सचतुर्गोपुरातोंतर्वेदिका वनपाठतः । तोरणांतरिताः सर्वाः स्तूपा नव नवाध्वसु ॥५४॥ पद्मरागमहास्तूपपर्यंतेषु सभागृहाः । हेमरत्नमयाश्चित्रमुनिदेवगणोचिताः ॥५५।। नभःस्फटिकनिर्माणस्ततः सालस्तृतीयकः । चतुश्चित्रा महारत्नसप्तभूमिकगोपुरः ॥५६॥ विजयो विश्रुतं कीर्तिर्विमलोदयविश्वध्रुक् । वासवीर्य वरं चेति पूर्वाख्या ख्यापिताष्टधा ॥५७।। वैजयंत्यं शिवं ज्येष्ठं वरिष्ठानघधारणं । याम्यमप्रतिघं चेति दक्षिणाख्याष्टधा मताः ॥५८॥ जयंतामितसारं च सुधामाक्षोभ्यसुप्रभं । वरुणं वरदं चेति पश्चिमाख्याष्टधा स्मृताः ॥५९॥ अपराजितमाख्यमतुलार्थममोधकं । उदयं चाक्षयं चोदक्कौवेर पूर्णकामकं ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org