SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ६५५ सप्तपंचाशः सर्गः । प्रभासा भास्वती भासा सुप्रभा भानुमालिनी । स्वयंप्रभेति षड्ढाप्यः सहकारवनोदिताः ||३५|| डदयो विजयः प्रीतिः ख्यातिश्चेति क्रमोदितैः । फलैः पूर्वादयो वाप्यः पूज्यंते तत्फलार्थिभिः॥३६॥ तद्वापी पुष्पसंदोहं यथोक्तं प्राप्य भाक्तिकाः । आस्तूपं क्रमशोभ्यर्च्य विशंति क्रमकोविदा ।। ३७ । अंतरेणोदयं प्रीतिं चाभितास्त्रिभुवोध्वसु । भांति नाटकशालास्ता हाटकोज्ज्वलमूर्तयः ||३८|| अध्यर्धक्रोशविस्तारा द्वात्रिंशद्भक्तिभाजिताः । तद्भुवोरत्ननिर्माणाः स्वच्छस्फटिकभित्तयः ॥ ३९ ॥ तासु भक्त्या प्रनृत्यंति द्वात्रिंशज्ज्योतिषां स्त्रियः । हावभावविलासाद्या रसपुष्टिसपुष्टयः ||४० ॥ सचतुर्गोपुरातोऽपि पर्येति वनदेविका । दिव्या वज्रमयी वीथी पार्श्वयोर्ध्वजपंक्तयः ॥४१॥ त्रिदंडविस्तृताश्चित्राः पीठिका प्रतिभक्तिगाः । योजनार्थोच्छ्रितास्तासु वंशारत्नात्मपूर्वकाः ॥ ४२ ॥ तदग्रपालिकानद्धफलकाधिष्ठिता ध्वजाः । महांतो दश चित्राः सत्किंकिणीचित्र पट्टकाः ||४३|| शिग्वि हंसगरुत्मत्स्रक्सिहेभमकरांबुजैः । वृषरूपेण चक्रेण समधिष्ठित मूर्त्तयः ॥ ४४ ॥ तेषामष्टशतं जातिर्द्वात्रिंशच्च चतुःशती । ध्वजसंख्या भवेदेषां सामान्येन समासतः ॥ ४५ ॥ सद्वात्रिंशत्सहस्राः स्युर्लक्षाः पंचाशदष्ट च । साधिका ध्वजसंख्येयं सैकदिका द्विसंगुणा ॥ ४६ ॥ षट्पंचाशत्सहस्राणि लक्षा षट्षष्टिरष्टसु । ध्वजकोट्यश्चतस्रः स्युश्चतुर्दिक्ष्वपि साधिका ||१७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy