SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ६५४ सप्तपंचाशः सर्गः । मांजरजःपुंजा पिंजरी भावितांभसि । स्वच्छायां दिङ्मुखान्यस्यां सांगरागाणि चात्यभान् २२ वल्लीवनमतोप्यतः परीत्य स्थितमित्यभात् । कुसुमामोदिता सांतं शंकुतालिकुलाकुलं ||२३|| प्राकारीतः परीयाय कनत्कनकभास्वरः । विजयादिवृहद्रौप्यचतुर्गोपुरमंडितः ||२४|| तत्र दौवारिका भौमा कटकादिविभूषणाः । प्रभावोत्सारितायोग्या मुनरोद्धतपाणयः ॥ २५ ॥ मणितोरणपार्श्वेषु गोपुराणां स्फुरत्विषां । छत्रचामरभृंगार पूर्वाष्टशतकान्यभान् ||२६|| तोपुरपुरो भांति प्रेक्षाशालास्त्रिभूमिकाः । द्विद्विवीथ्यतयोर्नृत्यद्वात्रिंशत्सुरकन्यकाः ॥२७॥ भात्यशोकवनं प्राच्यां सप्तपर्णवनं त्वपाक् । प्रतीच्यां चंपकवनमुदीच्यामाम्रसद्वनं ||२८|| ससिद्धप्रतिमाशोकः सप्तपर्णश्च चंपकं । तथैवाम्रतरुस्तेषां वनानामधिपाः क्रमात् ॥ २९ ॥ त्रिकोणाः मंडलाकाराश्चतुरस्राव वापिकाः । वनेषु रत्नतद्योताः शुद्धस्फटिकभूमयः ||३०|| विश्वाः सतोरणाः लक्ष्यास्तीर्थ्यास्तूच्चैर्वरांडकैः । मंडितागाहमानेष्वगाधाद्विक्रोशविस्तृताः ३१ ॥ नंदा नंदोत्तरानंदानंदवत्यभिनंदिनी । नंदघोषत्यमूर्वाप्यः षडशोकवनस्थिताः ||३२|| विजयाभिजया जैत्री वैजयंत्यपराजिताः । जयोत्तरेति षड़ाप्यः सप्तपर्णवनाश्रिताः ॥ ३३ ॥ कुमुदा नलिनी पद्मा पुष्करा विकचोत्पला | कमलेत्यपि षड़ाप्यचंपकाख्यवने मताः ||३४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy