________________
हरिवंशपुराणं ।
६५३
सप्त पंचाशः सर्गः ।
दूरादिंद्रादयो यस्यामानयंति नमस्यया । मा नार्हात्रिजगन्नाथं साभूर्मानांगणाभिधा ||९|| महादिक्षु चतस्रोस्या गव्यूतिद्वयविस्तृताः । वीथ्यस्तत्मध्यगानीयुर्मानपीठान्पुरःप्रमाः ॥ १० ॥ स्वोत्सेधत्रिगुणात्मीयविस्तराण्युक्तिविस्तरैः । सौवर्णरत्नमूर्तीनि मान्यते नृसुरासुरैः ॥११॥ नृसुरा मानवस्तंभानास्थायाचंति यत्र भूः । सा स्वास्थानांगणाभिख्या ज्वलल्लौहितरत्नभा ॥ १२ ॥ मध्ये वापि चतस्रोत्र त्रिभंगा हैमपीठिका: । भांत्युरोट्र्य सोच्छ्राया वृत्ता क्रोशार्धविस्तृता ॥ १३ ॥ चापोनपीठिका व्यासा योजनान्यधि कोच्छ्रयाः । शुंभिता मानवस्तंभावत्वारः पीठिका स्वधि १४ द्विषड्योजनदृश्यास्ते पालिकस्यांबुजस्थिता । वज्रस्फटिकवैडूर्यमूलमध्याग्रविग्रहा || १५ | द्विसहस्रस्रयो नानारत्नरश्मिविमिश्रिताः । चतुर्दिक्षूर्ध्वसिद्धार्चा : रत्नभूतोरुपालिका || १६ | पालिका मुखपद्मस्थतपनीयस्फुरद्घटाः । घटस्यावद्धफलका श्रीभामाभिषवश्रियः ||१७|| श्रीचलारत्नभाचक्रभास्य विंशतियोजनाः । साभिमानमनोदेवमानवस्तंभना बभुः ॥ १८ ॥ ततः सरांसि चत्वारः शुभदं भोजभांज्यलं । हंससारसचक्राद्वारावरम्यकक्रुप्स्वलं ॥ १९ ॥ अतो वज्रमयो वप्रो वक्ष्यो दो घनद्युतिः । द्विगुणीभूतविस्तारः परीयाय समंततः ||२०|| परीत्य परिखातोऽस्थाज्जलप्रभमणिक्षितिः । जानुदनांबुगंभीरा कृष्णसाठीव भूखियः ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org