________________
हरिवंशपुराणं।
६५२
सप्तपंचाशः सर्गः। त्रैलोक्योद्धारणाय प्रकृतधृतधृतिर्नेमिनाथो जगत्यां
द्वाविंशो हारिवंशो गुणगणवृहतात्तीर्थकृत्प्रादुरासीत् ॥११८॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ भगवन्नेमिनाथकेवलज्ञानवर्णनो नाम षट्पंचाशः सर्गः ।
सप्तपंचाशः सर्गः। समवादि समापादि शरणं शरणं क्षणात् । त्रिजगत्प्राणिनां देवैः पाकशासनशासनात् ॥१॥ सर्वो द्वारवतीलोको यदुभोजकुलांबुधिः । आरुरोह गिरिं भूत्या रामकेशवपूर्वकः ॥२॥ अवलोक्य जिनेंद्रस्य शरणं समवादिकं । बहिरंतःपरं प्रापद्विस्मयं जनसागरः ॥३॥ यादृशी समवस्थानभूमिस्तीर्थकृतामिह । तादृशी श्रोतृलोकस्य समासेन निगद्यते ॥४॥ भूमेः स्वभावभूताया दिव्यारत्निप्रमोच्छृतिः । भूमिस्तावत्समुच्छाया कल्पभूमिरुपयेतः ॥५॥ स्वर्गश्रियं श्रिया जेत्री चतुरस्रा सुखप्रदा । सैकांतद्वादशाद्यात्मयोजना कालदेशतः ॥६॥ उच्चैगंधकुटीदेशकार्णिका पद्ममूर्तिवत् । भाति भूमिरसौ वाद्यभूश्रीपत्रपरंपरा ॥७॥ इंद्रनीलमयी भूमिर्वाह्यादर्शतलोपमा । भूयसामपि भूयस्त्वं विशतां विदधाति या ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org