________________
हरिवंशपुराणं ।
६५०
षट्पंचाशः सर्गः । वेद्यमकं मनुष्यायुमनुष्यगतिरेव च । तत्प्रायोग्यानुपूर्वी च जातिः पंचेद्रियाभिधा ॥१०७।।
सवादरपर्याप्तसुभगादेयसंज्ञिका । उच्चैर्गोत्रं यशःकीर्तिस्तत्तीर्थकरनाम च ॥१०८॥ एतास्त्रयोदशख्याताः प्रकृतीः प्रकृतिस्थिरः । अयोगकेवली हंति चरमे समये ततः ॥१०९॥ सहस्वाच्चारणवृत्तीः पंच स्थित्वा स्वकालतः। सिद्धिः सादिरनंता स्यादनंतगुणसन्निधिः॥११०॥ धर्म्यध्यानप्रकारं स ध्यायनेमियथोचितं । षट्पंचाशदहोरात्रकालं सुतपसानयत् ॥११॥ पूर्वाह्ने स्वयुजस्यातः शुक्लप्रतिपदि प्रभुः । शुक्लध्यानाग्निना दग्ध्वा चतुर्घातिमहावनं ॥११२॥ अनंतकेवलज्ञानदर्शनादिचतुष्टयं । त्रैलोक्येंद्रासनाकंपि संप्रापत्परदुर्लभं ॥११३॥ घंटारावोरुसिंहस्फुटपटहरवोदारशंखस्वनैस्तां
जैनी कैवल्यलब्धि सकलसुरगणा द्राग्विदित्वा यथास्वं इंद्राः सिंहासनोच्चैर्मुकुटविचलनः स्वान् प्रयुज्यावधीन् स्वैः
प्राप्तान कैः सहायुः क्षुभितसलिलधिवातवद्भिस्त्रिलोक्याः ॥११४॥ आपूर्यावार्यवेगैर्गगनजलनिधिं वाहनानां समूहैः सप्तानीकैरनीकैस्त्रिदशपतिगणस्तं परीत्य प्रपेदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org