________________
हरिवंशपुराणं।
६४९
षट्पंचाशः सर्गः । पुंवेदे नोकषायाणां पदं प्रक्षिप्य वै सह । निरस्याक्षिप्य पुंवेदं क्रोधसंजलनानले ॥१४॥ मानसंज्वलने तं च मायासंज्वलने त्वमुं । लोभसंज्वलने त्वेनं निक्षिप्य दहति क्रमात् ॥९५।। लोभसंज्वलनं सूक्ष्मं कृत्वा सूक्ष्मकषायगः । लोभसंज्वलनस्यांतमंते कृत्वा विमोहकं ॥९६ भूत्वा क्षीणकषायस्योपांतिम समयेऽस्यति । निद्रां च प्रचलामंत्ये ज्ञानावृत्यंतराययोः ॥९७॥ प्रत्येकं प्रकृतीः पंच चतस्रो दर्शनावृतेः । दग्ध्वैकत्ववितर्काग्निः सयोगः केवली भवेत् ।।९८॥ सद्वेद्यं चाप्यसवेद्यं नामदेवगतिश्रुतिः । औदारिकशरीरादिनाना पंचतयं तथा ॥९९॥ संघातपंचकं चापि पुनबंधकपंचकं । वैक्रियोद्वारिकाहारकायांगोपांगकत्रिकं ॥१०॥ संस्थाननामषद्कं च षट्संहनननाम च । वर्णपंचकनामापि रसपंचकनाम च ॥१०१॥ अष्टधा स्पर्शनामापि गंधनाम पुनर्द्विधा । तत्प्रयोग्यानुपूर्वी च नामदेवगतेः पुनः ॥१०२॥ नामागुरुलघूच्छासपरघातोपघातकं । प्रशस्ताशस्तभेदस्थं विहायोगति नाम च ॥१०३॥ प्रत्येककायापर्याप्तस्थिरास्थिरशुभाशुभं । तथा दुर्भगनामापि पुनः सुस्वरदुस्वरं ॥१०४॥ अनादेययशःकीर्तिनाम निर्माणनाम च । प्रकृतीसप्ततिनींचैगोत्रेण च सुपिंडिताः ॥१०५॥ सयोगकेवली स्थानमतीत्य पदमास्थितः । अयोगकेवली हंति स्वोपांत्यसमयेर्हतः ॥१०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org