________________
६४६
हरिवंशपुराणं ।
पदपंचाशः सर्गः । परेषामनुमेयं स्यात्स्वसंवेद्यं यदात्मनः । आध्यात्मिकं तयोरेव लक्षणं प्रतिपद्यते ॥५६॥ पृथग्भावः पृथक्त्वं हि नानात्वमभिधीयते । वितर्को द्वादशांगं तु श्रुतज्ञानमनाविलं ॥५७॥ अर्थव्यंजनयोगानां वीचारः संक्रमः क्रमात् । ध्येयोऽर्थो व्यंजनं शब्दो योगो वागादिलक्षणः॥५८॥ पृथक्त्वेन वितर्कस्य वीचारार्थादिषु क्रमात् । यस्मिन्नास्ति तथोक्तं तत्प्रथमं शुक्लमिष्यते ।।५९॥ तद्यथा पूर्वविद्ध्यायनविक्षिप्तमना मुनिः । द्रव्याणुं चापि भावाणुमेकमालंन्य संवृतः ॥६॥ अतीक्ष्णेनापि शस्त्रेण शनैछिदन्निव द्रुमं । मोहस्योपशमं कुर्वन् क्षयं वा बहुनिर्जरः ॥६॥ द्रव्याद्रव्यांतरं याति पर्यायं चान्यपर्ययात् । व्यंजनाद् व्यंजनं योगायोगांतरमुपैति यत् ॥६२॥ शुक्लं तत्प्रथमं शुक्लतरलेल्याबलाश्रयं । श्रेणीद्वयगुणस्थानं क्षयोपशमभावकं ॥६३॥ सर्वपूर्वधरस्येदमंतमौहुर्तिकस्थिति । श्रेणीद्वयवशाद्वेद्यं स्वर्गमोक्षफलप्रदं ॥१४॥ एकत्वेन वितर्कोऽस्ति यस्मिन्वीचारवर्जिते । तदेकत्ववितर्कावीचारं शुक्लं तदुत्तरं ॥६५॥ एकमेवाणुपर्यायं विषमीकृत्य वर्तते । मोहादिधातघातीदं पूर्विणः स कृती ततः ॥६६॥ ज्ञानदर्शनसम्यक्त्ववीर्यचारित्रपूर्वकैः । भासते क्षायिकैर्भावस्तीर्थकृहान्यकेवली ॥६७॥ सोर्चनीयोऽभिगम्यश्च त्रिभुवा परमेश्वरः । देशोनां विरहत्येकां पूर्वकोटी प्रकर्षतः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org