________________
हरिवंशपुराणं ।
षट्पंचाशः सर्गः ।
६४५ द्रव्याणामपि जीवानां धर्माधर्मादिसंज्ञिनां । स्वभावचिंतनं धर्म्यमजीवविचयं मतं ॥ ४४ ॥ यच्चतुर्विधबंधस्य कर्मणोऽष्टविधस्य तु । विपाकचिंतनं धर्म्य विपाकविचयं विदुः ||४५ || शरीरमशुचिर्भोगा किंपाकफलपाकिनः । विरागबुद्धिरित्यादि विरागविचयं स्मृतं ॥ ४६ ॥ प्रेत्यभावो भवोमीषां चतुर्गतिषु देहिनां । दुःखात्मेत्यादिचिंता तु भावादिविचयं पुनः || ४७|| सुप्रतिष्ठितमाकाशमाकाशे वलयत्रयं । संस्थानध्यानमित्यादि संस्थानविचयं स्थितं ॥ ४८ ॥ अतींद्रियेषु भावेषु बंधमोक्षादिषु स्फुटं । जिनाज्ञा निश्चयध्यानमाज्ञाविचयमीरितं ॥ ४९ ॥ तर्कानुसारिणः पुंसः स्याद्वादप्रक्रियाश्रयात् । सन्मार्गाश्रयणध्यानं यद्धेतुविचयं तु तत् ॥ ५० ॥ अप्रमत्तगुणस्थान भूमिकं प्रमादजं । पीतपद्मलसल्लेश्याबलाधानमिहाखिलं ॥५१॥ कालभावविकल्पस्थं धर्म्यध्यानं दशांतरं । स्वर्गापवर्गफलदं ध्यातव्यं ध्यानतत्परैः ॥५२॥ शुक्लं शुचित्व संबंधाच्छौचं दोषाद्यपोढता । शुक्लं परमशुकुं च प्रत्येकं ते द्विधा मते || ५३ || सवीचारविवीश्वारपृथक्त्वैक्यवितर्कके । सूक्ष्मोच्छिन्नक्रियापूर्वप्रतिपातिनिवर्तके || ५४॥ लक्षणं द्विविधं बाह्यं जंभास्तंभाद्यपोहनं । प्राणापानप्रचारस्यान्युत्पन्ना प्रहृष्यतः || ५५॥ ९ व्यक्त्युच्छिन्नाप्रवृष्यतः इति ख पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org