________________
हरिवंशपुराणं ।
६४४
पट्ट्पंचाशः सर्गः ।
भावशुद्धिरपि श्रेष्ठा यदा भवति योगिनः । आरभेत तदा ध्यानं सर्वद्वंद्वसहः स हि ॥ ३१ ॥ गंभीरः स्तंभमूर्तिः सन्पर्यकासनबंधनः । नात्युन्मीलनिमीलश्च दत्तदंताग्रदंतकः ||३२|| निवृत्तकरणग्रामव्यापारः श्रुतपारगः । मंद मंदं प्रवृत्तांत : प्राणापानादिसंचरः ||३३ ॥ नाभेरूर्द्ध मनोवृत्तिं मूर्ध्नि वा हृदि वालके । मुमुक्षुः प्रणिधायाक्षं ध्यायेध्यानद्वयं हितं ॥ ३४ ॥ बाह्यात्मिकभावानां याथात्म्यं धर्म उच्यते । तद्धर्मादनपेतं यद्धर्म्यं तद्ध्यानमुच्यते ॥ ३५ ॥ लक्षणं द्विविधं तस्य वाह्याध्यात्मिकभेदतः । सूत्रार्थमार्गणं शीलं गुणमालानुरागिता ||३६|| जाजृंभाक्षितोद्वारप्राणापानादिमंदता । निभृतागत्रतात्मत्वं तत्र बाह्यं प्रकीर्तितं ॥३७॥ दशधाध्यात्मिकं धर्म्यमपायविचयादिकं । अपायो रहोविचयो मीमांसास्तीति तत्तथा ||३८|| संसारहेतवः प्रायस्त्रियोगानां प्रवृत्तयः । अपायो वर्जनं तासां स मे स्यात्कथमित्यलं ॥३९॥ चिंता प्रबंधसंबधः शुभलेश्यानुरंजितः । अपायत्रिचयाख्यं तत्प्रथमं धर्म्यमीप्सितं ॥४०॥ उपायविचयं तासां पुण्यानामात्मसात्क्रिया । उपायः स कथं मे स्यादिति संकल्प संततिः ॥४१॥ अनादिनिधना जीवा द्रव्यार्थादन्यथान्यथा । असंख्येयप्रदेशास्ते स्वोपयोगत्वलक्षणाः || ४२ || अचेतनोपकरणाः स्वकृतोचितभोगिनः । इत्यादिचेतनाध्यानं यज्जीवविचयं हि तत् ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org