________________
हरिवंशपुराणं।
६४३
षट्पंचाशः सर्गः। अधिष्ठानं प्रमादोस्य तिर्यग्गतिफलस्य हि । परोक्षं मिश्रको भावः षड्गुणस्थानभूमिकं ॥१८॥ रुद्रः क्रूराशयः प्राणी रौद्रं तत्रभवं ततः । हिंसासंरक्षणस्तेयमृषानंदैश्चतुर्विधं ॥१९॥ आनंदोभिरुचिर्येषां हिंसादिषु यथायथं । हिंसानंदादयस्ततो निरुच्यते समासतः ॥२०॥ लक्षणं द्विविधं तत्र पारुष्याक्रोशनादिकं । स्वसंवेद्यं परैर्मेयं बाह्यमाध्यात्मिकं पुनः ॥२१॥ स्यात्संरंभसमारंभारंभलक्षणमात्मना । हिंसायां रंजनं तीनं हिंसानंदं तु नंदितं ॥२२॥ श्रद्धय परलोकस्य सविकल्पितयुक्तिभिः । विप्रलंभनसंकल्पो मृषानंदं सुनंदितं ॥२३॥ प्रतीक्षया प्रमादस्य परस्वहरणं प्रति । प्रसह्य हरणं ध्यानं स्तेयानंदमुदीरितं ॥२४॥ स्वपरिग्रहभेदे तु चेतनाचेतनात्मनि । संरक्षणाभिधानं तु स्वस्वामित्वाभिचिंतनं ॥२५॥ सुकृष्णनीलकापोतबलाधानं प्रमादगं । अध:पंचगुणस्थानं रौद्रध्यानचतुष्टयं ॥२६॥ अंतर्मुहूर्तकालं तु दुर्धरत्वादतः परं । क्षयोपशमभावस्तु परोक्षज्ञानभावतः ॥२७॥ भावलेश्याकषायस्वातंत्र्यादौदयिकोऽपि वा । उत्तरं फलमेतस्य नारकी गतिरुच्यते ॥२८॥ परिहत्यातरौद्रे द्वे पापध्याने मुमुक्षवः । धHशुक्लधियः संतु शुद्धभिक्षादिभिक्षवः ॥२९॥ एकांतं प्रासुकं क्षेत्रं क्षुद्रोपद्रववर्जितं । दिव्यं संहननं द्रव्यं कालोत्युष्णादिवर्जितः ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org