________________
हरिवंशपुराणं।
६४२
षट्पंचाशः सर्गः । लक्षणं द्विविधं तस्य बाह्यमानंदनादिकं । परश्रीविस्मयं प्राप्तं विषयासंजनादिकं ॥५॥ तदात्मनः स्वयं वेद्यं परेषामानुमानिकं । अभ्यंतरं चतुर्भेदं स्वलक्षणसमन्वितं ॥६॥ विषयस्यामनोज्ञस्य यदनुत्पत्तिचिंतनं । उत्पन्नस्य वियोगाय संकल्पाध्यवसायकं ॥७॥ मनोज्ञविप्रयोगस्य यत्रानुत्पत्तिचिंतनं । उत्पन्नस्यांतचिंता च चातुर्विध्यमितीरितं ॥८॥ तत्रामनोज्ञस्य दुःखस्य साधनं चेतनादिकं । मत्यादि विषशस्त्रादि बाह्यमेतदुदीरितं ॥९॥ आध्यात्मिकं तु वातादिप्रकोपजमनेकधा । कुक्ष्याक्षिदंतशूलादिशारीरमतिदुस्सहं ॥१०॥ शोकारतिभयोगविषादविषदूषितं । जुगुप्सादौर्मनस्यादि मानसं दुःखसाधनं ॥११॥ सर्वस्यास्यामनोज्ञस्य माभूदुत्पत्तिरित्यलं । चिंताप्रबंध आद्यं स्यादातध्यानमलाविलं ॥१२॥ उत्पन्नस्यास्य चाभावः कथं मे स्यादितीदृशं । संकल्पाध्यवसानं तु द्वितीयं तत्प्रकीर्तितं ॥१३।। पशुपुत्रकलत्रादिमनोज्ञं सुखसाधनं । बाह्यं स्याद्धनधान्यादि सचेतनमचेतनं ॥१४॥ आध्यात्मिकं च पित्तादि साम्यादारोग्यसांगिकं । मानसं सौमनस्यादि रत्यशोकाभयादिकं।।१५।। विप्रयोगश्च मे माभूदैहिकामुत्रकस्य तु । मनोज्ञस्येति संकल्पस्तृतीयं चार्तमुच्यते ॥१६॥ मनोज्ञविप्रयोगस्य पूर्वोत्पन्नस्य यत्पुनः । अभावेऽध्यवसानं तु तुर्यमार्तमनोजजं ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org