________________
हरिवंशपुराणं।
६४७
षट्रपंचाशः सर्गः। अंतमुहूतशेषायुः स यदा भवतीश्वरः । तत्तुल्यस्थितिवेद्यादित्रितयश्च तदा पुनः ॥६९।। समस्तं वाङ्मनोयोगं काययोगं च वादरं । ग्रहाप्यालंब्य सूक्ष्मं तु काययोगं स्वभावतः ॥७॥ तृतीयं शुक्लसामान्यात्प्रथमं तु विशेषतः । सूक्ष्मक्रियाप्रतीपाति ध्यानमास्कंतुमर्हति ॥७१॥ सोतर्मुहूर्तशेषायुरधिकान्यत्रिकस्थितः । यदा भवति योगीशस्तदा स्वाभाव्यतः स्वयं ॥७२॥ स्वोपयोगविशेषस्य विशिष्टकरणस्य हि । सामायिकसहायस्य महासंवरसंगते ॥७३॥ शक्तस्य शातने शेणकर्मणां परिपाचने । दंडं चापि कपाटं च प्रतरं लोकपूरणं ॥७४|| चतुर्भिःसमयैःकृत्वा स्वप्रदेशविसर्पणात् । तावद्भिरेव संहृत्य कृतकर्मसमस्थितिः ॥७५॥ पूर्वकायप्रमाणः सन् भूत्वा निष्ठापयन्निदं । प्रथमं शुक्लमध्यास्ते द्वितीयं परमं पुनः ॥७६।। स्वप्रदेशपरिस्पदयोगप्राणादिकर्मणां । समुच्छिन्नतयोक्तं तत्समुच्छिन्नक्रियाख्यया ॥७॥ सर्वबंधास्रवाणां हि निरोधस्तत्र यत्नतः । अयोगस्य यथाख्यातचारित्रं मोक्षसाधनं ॥७८॥ सोयोगकेवली ह्यात्मा प्रध्वस्ताखिलकमेकः । जात्यहेमवदुद्भूतचेतनाशक्तिभास्वरः ॥७९।। सिद्धयनिहैव संसिद्धस्वोद्धव्रज्यास्वभावतः । पूर्वप्रयोगासंगत्वबंधच्छेदगतिभ्रमैः ॥८॥ अनेः शिखावदाविद्धचक्रालांबुवदुत्पतन् । एरंडबीजवच्चोढुं लोकं समयतो व्रजेत् ।।८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org