________________
हरिवंशपुराणं ।
६४०
पुरि वितीर्य नु तत्र जिनायताः सुपरमान्नमथावृजिनायताः । प्रवरदत्त इतो महिमा हिताः सुरगणैः सुमहामहिमाहिता ।। १२९ ।। पथि तपस्यति तत्र कृते हिते नृपसुतामनसि त्रपिते हिते ।
न्यभूत तापमपारवियोगिनी कुमुदिनीव दिवारवियोगिनी ॥ १३० ॥ प्रवलशोकवशा प्रविलापिनी शिथिलभूषण केशकलापिनी ।
पंचपंचशः सर्गः ।
परिजनेन वृता प्ररुदोद सा करुणशब्दततात्पुरोदसा ॥ १३१ ॥ विधिमुपालभते वरहारिणं वरवधूर्वरमध्यतिहारिणं ।
Jain Education International
जघनपीनपयोधरहारिणी नयनवारिकणाविलहारिणी ॥ १३२ ॥ शमितशोकभरा वचनैर्हितैर्गुरुजनस्य तपोवचनैर्हितैः ।
मतिमधत्त तपस्यनपायिनि प्रशमसौख्यतपस्यनपायिनि ॥ १३३ ॥ राजीमत्याश्चारुराजीवलक्ष्मी राजीमत्याः पाणिपादस्य कांत्या । तापस्यतिं ज्ञातयो वेत्य वृत्तं तापस्यतिं मानसस्यापुरते ॥ १३४ ॥ स्त्रीणामाद्यं पारतंत्र्यं विदुःखं दौर्लभ्येमूर्भर्तुरंगं विदुःखं ।
For Private & Personal Use Only
www.jainelibrary.org