________________
हरिवंशपुराफ।
६३९
पंचपंचाशः सर्गः । व्यपनयन्निव शल्यपरंपरां नृपगणः श्रियमैत्स्वपरंपरां ॥ १२२ ॥ मणिगणांशुलसत्पटलीकृतान् जिनकचा कुलिशी पटलीकृतान् ।।
अकृत दुग्धमये स महोदधौ वपुरलं समये समहोदधौ ॥ १२३ ॥ समवतारमिनोंगिकृपावनं स्वकृतवस्त्रमयस्य सुपावनं ।
सपदि यत्र तदत्र यथाश्रुतं जगति तीर्थमभूच यथाश्रुतं ॥ १२४ ॥ मतिषु बोधचतुष्कविराजितस्त्रिदशकोटिमहाकविराजितः ।
विधुरिवोपगतग्रहतारकः प्रभुरभादपरिग्रहतारकः ॥ १२५ ।। नभसि शुक्लतुरीयतया तिथौ क्रमभृतीशिनि षष्ठतया तिथौ ।
विहितनिष्क्रमणे नृसुराऽसुराः सुविदधुर्महमेषु सुरासुराः॥ १२६ ॥ मदनभंगकृतप्रभवे भवे भवभृतां शरणाय हिते हिते।
हतरुष वितृषे मुनये नये स्थितवते नम इत्यसुरासुराः ॥ १२७ ।। स्तवनपूर्वममी च समंततः प्रणतिमेत्य नृपाश्च समं ततः ।
स्वहृदयस्थतपस्थितनेमयः स्वपदीयुररिस्थिरनेमयः ॥१२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org