________________
हरिवंशपुराणं ।
पंचपंचाशः सर्गः।
मणिसुवर्णसुवर्णधराधरे विविधधातुरसौषधराधरे ।
शिखररंजितकिन्नरदेवके वनभुवा हृतधीनरदेवके ॥ ११६ ॥ उपवने वृजिने शिविकामतः स्वमतमाप्य जिने शिविकामतः।
द्रवति यद्रहितो हरिणां हरिः स निदधे सहितो हरिणा हरिः॥ ११७ ॥ इह जहौ वसुधाशिविकासनं पुरुतपोभि सुधाशिविकासनं ।
नमिसमः स शिलातलमायया-वपगमार्थमिलातलमायया ॥ ११८ ॥ स्रजमितोथ सवस्त्रमलंकृतीरपगमय्य सवस्त्रमलंकृती।
प्रविलसत्कमलासनधीरतः प्रियवधूकमलासनधीरतः ॥ ११९ ॥ मृदुकरांगुलिभीरुचिरासितान् घनकचानतिभीरुचिरासितान् ।
व्युदहरदृढपंचपरिग्रहैः स रहितः सकृपं च परिग्रहैः ॥ १२० ॥ नृपसहस्रममा नमिना तपः श्रितमिवैनममा नमिना तपः ।
तपति नातपवारणवारितः प्रपतदातपवारणवारितः ॥ १२१ ।। निकचितां कचसंपदमात्मना प्रकुटिलांगतकोपदमात्मना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org