________________
हरिवंशपुराणं ।
६३७
पचपंचाशः सर्गः। विविधरूपधरामधिरूढवान् विधिरिवोदयभूधरभित्तिकां ॥ १०९॥ क्षितिभृतः क्षितितः शिविकां शिवामुदहरन्प्रथमाः प्रथमं ततः ।
सुरपथे सुरनाथपुरोगमाः सुरवरा सुखमूहुरमूं मुदा ॥ ११० ॥ अभवर्द्धमदारमुदारवः सुरगणैर्विहितो विहितो श्रियां (!)। - श्रुतिमधोमुखरो मुखरोधितो व्यधिसुवो जगतो जगतोऽरुणत् ॥ १११॥ ननृतुरप्सरसः सहसा रसैः सशिखमप्सरसः सहसा रसैः।
यमभिसामरसं घनतां गतं तमिव शांतरसं घनतां गतं ॥ ११२ ॥ गिरिमितः सहितामरसेनया जिनवरः सहितामरसेनया ।
समरुचिर्गिरिरादुचमूर्जयंत इति योऽस्ति हि पापचमूर्जयन् ॥ ११३ ।। रविनिशाकरयोरुभयांतयोर्विचरतोस्तिमिरोरुभयांतयोः ।
दिवि न यत्र महात्मनिदर्शनं किमिह तुंगतयास्य निदर्शनं ॥ ११४ ॥ मुखरनिझरपातपतत्रिभिमुखरसप्रदचूतलताफलैः। कुसुमनिझरपादपजातिभिः कुसुमनोरहितोऽतिविराजते ॥ ११५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org