________________
हरिवंशपुराणं।
६३६
पंचपंचाशः सर्गः। प्रतिविबुद्धपथः स्वयमेव स प्रतिविबोधकदेवगिरोऽस्य ताः ।
अनुवदंत्यति ताः पुनरुक्ततां फलति चावसरे पुनरुक्तता ॥ १.३॥ लघु विमुच्य मृगान्मृगवांधवो नृपसुतैः प्रविवेश पुरं प्रभुः ।।
सपदि तत्र नृपासनभूषणं ननृतुरेत्य पुरेव सुरेश्वराः ॥ १०४ ॥ तमुपवेश्य ततःस्नपनासने समुपनीतपयःपयसा सुरैः। __समभिषिच्य विभूष्य सुरोचितस्रगनुलेपनवस्त्रविभूषणैः ॥ १०५ ॥ सुहरिविष्टरवर्तितमीश्वरं हरियुगान्वितभूपसुरासुराः । ___ बभुरतीव तदा परितः स्थिताः प्रथममेरुमिवोरुकुलाचलाः ॥ १०६ ॥ जिगमिर्षु तपसे जिनमादृता हरिपुरःसरभोजयदत्तमाः।
अनुनयैर्न निरोद्धुमलं तदा प्रबलसिंहमिवोद्भुतपंजरं ।। १०७ ॥ पितृपुरःसरबंधुजनं जिनः सुपरिबोध्य जगत्स्थितिकोविद ।
धनदशिल्पिकृतां शिविका पदैरगमदुत्तरकुर्वभिधातकं ॥ १०८ ॥ ध्वजसितातपवारणमंडितां सुमणिभित्तिमुपाहितभक्तिको ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org