________________
हरिवंशपु
६३५
नरभवेयमानतिमोहितो न यतते भवदुःखनिवृत्तये ॥ ९६ ॥ भवसुखानि वहिर्विषयोद्भवान्यतिमहांत्यपि संततितान्यपि । भवभृतो न भवंति हि तुष्टये जलनिधेरिव सिंधुशतान्यपि ॥ ९७ ॥ खचरदेवनृपामरजन्मजं नृपजयंत विमानभवोद्भवं ।
पंचपंचाशः सर्गः ।
न हि सुसंभवसागरजीवितः समनुभूतमभून्मम तृप्तये ॥ ९८ ॥ कतिपयाहभवं वत किं पुनः सुलभमप्यतिमानुषमप्यलं ।
भवति तृप्तिकरं मम सांप्रतं सुखमसारमसारतयायुषः ॥ ९९ ॥ अत इदं क्षयि तापकरं सुखं विषयजं प्रविहाय महोद्यमः ।
क्षयविमुक्तमतापजमात्मजं शिवसुखं महता तपसार्जये ॥ १०० ॥ इति तदा मनसा वचसा समं सुपरिचितयति ध्रुवमीश्वरे । शशिनिभाः खलु पंचमकल्पजास्तुषितवारुणार्कपुरस्सराः ॥ १०१ ॥ लघु समेत्य नता नतमौलयः कृतकरांजलयस्त्रिदशा जगुः । समय एष विभो भरतेऽधुना त्वमिह वर्तय तीर्थमिति प्रभुं ॥ १०२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org