________________
हारे वंशपुराणं ।
६३४
रणमुखेषु रणार्जित कीर्तयः करितुरंगरथेष्वपि निर्भयान् । अभिमुखानभिहंतुमधिष्ठितानभिमुखा प्रहरंति न हीतरान् ॥ ९० ॥ शरभसिंहवनद्विपयूथपान् प्रकुपितान्परिहृत्य विदूरतः ।
पंचपंचाशः सर्गः ।
मृगशशान् पृथुकान् प्रहरत्यमून् कथमिवात्र पुमान्न विलज्जतें ॥ ९१ ॥ चरणकंटकवेधभयाद्भटा विदधते परिधानमुपानहां ।
मृदुमृगान् मृगयासु पुनः स्वयं निशितशस्त्रशतैः प्रहरंति हि ॥ ९२ ॥ विषय सौख्यफल प्रसवोदयः प्रथम एष मृगौघवधोऽधमः ।
अनुभवे पुनरस्य रसप्रदे षडसुकायनिपीडनमध्यधि ॥ ९३ ॥ विपुलराज्यपद स्थितिमिच्छता सकलसत्त्ववधोऽभिमुखीकृतः । दुरितबंधुफलस्तु वध ध्रुवं कटुफला स्थितिरस्य वरा यतः ॥ ९४ ॥ प्रकृतिदेशरसानुभवस्थितिः प्रचितबंधचतुष्कवशीकृतः । भजति दुर्गतिषु क्रमतो भ्रमन् विविधदुःखमयं भवभृगुणः ॥ ९५ ॥ प्रतिभवं भयदुःखखनीयुतैर्विषमजैः कुसुखैरतिभावितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org