________________
हरिवंशपुराणं ।
६३३
अतितरां विबभौ विभुसन्निधौ विधृतनर्तकनर्तनवत्तदा || ८३ ॥ उपवनं समुपेत्य वनश्रियं सपदि यूनि विलोकयतीश्वरे ।
Jain Education International
पंचपंचाशः सर्गः ।
विततशाखवनद्रुमजातयो विचकुरुः कुसुमांजलिमानताः ॥ ८४ ॥ स खलु पश्यति तत्र तदा वने विविधजातिभृतस्तृणभक्षिणः ।
भयविकंपितमानसगात्रकान् पुरुषरुद्धमृगानतिविठ्ठलान् ।। ८५ ।। लघु निरुध्य रथं सहसारथिं निजनिनादजितांबुदनिस्वनः ।
अपि विदन्नवदन्मृगजातयः किमिह रोघमिमाः प्रतिलंभिताः ॥ ८६ ॥ अकथयत्प्रणतः स कृतांजलिः क्षितिभुजामिह मांसभुजां विभो ।
तव विवाहविधौ मृगरोधनं विविधमांसनिमित्तमनुष्ठितं ॥ ८७ ॥ इति निशम्य निशाम्य मृगवजान्प्रकृतिभूतदयास्थितमानसः ।
नृपसुतानभिवीक्ष्य विभुर्जगावभिनिबोधविजृंभणसावधिः ।। ८८ ।। गृहमरण्यमरण्य तृणोदकान्यशनपानमतीव निरागसः । मृगकुलस्य तथापि वधो नृभिर्जगति पश्यत निर्घृणतां नृणां ॥ ८९ ॥
For Private & Personal Use Only
www.jainelibrary.org