________________
हरिवंशपुराणं।
६३२
पंचपंचाशःसर्गः चलतडित्सबलाकवलाहके सुरपचापवरे शरवर्षिणि ।
क्षितिरभात्सुरगोपशतैश्चिता पतितपांथमनोभिरिवाभितः ॥ ७७ ॥ कुटजनीपकदंबकदंबकैः कुसुमितैः ककुभैः ककुभोऽखिलाः ।
नवशिलिंध्रदलैश्च मनोहराः स वनरंध्रगिरिक्षितयो बभुः ।। ७८ ॥ घनघनाघनगर्जिततर्जिता मुखरवाहुलतावलयारवैः ।
युवतयः प्रियकंठदृढग्रहेर्विदधुरुयभयग्रहनिग्रहं ।। ७९ ॥ गिरिशिलातपयोगविमोचितास्त्रिविधयोगधरा मुनयो वने ।
शिशिरमारुतवर्षसहक्षमास्तरुलताभिमुखास्त्ववतस्थिरे ।। ८०॥ पृथुरयं चतुरश्वयुतं तदा ध्वजपताकिनमर्करथप्रभं ।
समधिरुह्य सनेमियुवान्वितो नृपसुतैश्चलितो वनभूमिकां ॥ ८१ ॥ मुदितभोजसुतानगरांगना-तृषितनेत्रनिपीतवपुर्जलः ।
विपुलराजपथेन स तैरगात्सकृपयेव मनोहरदर्शनः ।। ८२॥ जलनिधिर्मुखरः स्वतरंगकैर्ललितनतनदोभिरिवाकुलैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org