________________
हरिवंशपुराणं।
६३१
पंचपंचाशः सर्गः । परितुतोष सबंधुरधीशितुर्विकृतिरप्यतितोषकरी तदा ॥ ७० ॥ कृतपरिश्वजनः स्वजनैः स तं समभिपूज्य युवानमगाद्गृहं ।
.स्वयुवतिं प्रति दीपितमन्मथं समवबुध्य हरिर्मुमुदेधिकं ।। ७१॥ सविधि याचितभोजमुताकरग्रहणहेतुविबोधितबांधवः।
नरपतीन् सकलान् सकलत्रकानकृत सन्निहितान् कृतगौरवः ॥ ७२ ॥ विहिततत्समयोचितमज्जनौ परमरूपधरौ धृतमंडनौ ।
पुरि यथास्वमगारमधिष्ठितो जनमनो हरतां सुवधूवरी ॥ ७३॥ ऋतुरियाय स धर्ममयस्ततो भुवि धनागमकालभयादिव ।
नभसि दीनमदर्शि घनावली मरुपये पथिकैस्तृषितैरपि ॥ ७४ ॥ प्रथमगर्जितशीतपयःकणा जलमुचां शिखिचातकसौख्यदाः।
भुवि बभूवुरशेषवियोगिनां द्विगुणतापजुषामतिदुःसहा ।। ७५ ॥ दवदिवाकरदग्धवनावली-प्रथमनिर्गतवाष्पसुसौरभे ।
अभवतामिव सौहृददर्शने नभसि वर्षति मेघकदंबके ।। ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org