________________
हरिवंशपुराणं ।
..६२९
पंचपंचाशः सर्गः। विभुवपुर्वसनैः सममार्जयन सुपरिधाय परं परिधानकं ॥ ५७ ॥ सपदि मुक्तजलांबरपीलने स्फुटकटाक्षगुणेन विलासिता।
मधुरिपुस्थिरगौरवभूमिकामतुलजांबवतीं समनोदयत् ॥ ५८ ॥ कृतककोपविकारकटाक्षिणी सललितभ्रु विलोक्य तु चक्षुषा ।
विभुमुवाच वचःपथपंडिता ज्वरितजांबवती स्फुटिताधरा ॥ ५९॥ भुजगकोटिमणिद्युतिमंडलद्विगुणितांगतिरीटमणिप्रभः।
समधिरुह्य स कौस्तुभभासुरः स्वहरिवाहमहाशयनं हरिः ॥ ६ ॥ घननिनादततांबरमंबुजं जगति पूरयते च निजांबुभाः । (2)
कठिनशाऊँधनुः सगुणं करोत्यखिलभूपविभुः सुभगांगनः ॥ ६१ ॥ पतिरसौ मम कोऽपि कदाचन प्रति न शास्ति हि वेदृशशासनं ।।
तदिह कश्चिदयं किल शास्ति मामपि भवान् सजलांबरपीलने ॥ ६२ ।। इति निशम्य तु काश्चन तद्वचः प्रतिजगुर्जगतीपतियोषितः ।
किमिति नाथमधिक्षिपसि त्रिभूप्रभुमनंतगुणं विगतत्रपे ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org