________________
हरिवंशपुराणं ।
६२८
शिशिरवारिणि तत्र जलास्पदे जलविहारमसेवत तीर्थकृत् ॥ ५१ ॥ तरणदूरनिमज्जनकक्रियाः सलिलयंत्रकराच परस्परं ।
स्वमुखवारिसुसेकवधूजनांः प्रतिविचिक्षिपुरंबु मुखांबुजे ॥ ५२ ॥ विभुमपि प्रति ता व्यकिरन्नपः करतलांजलिभिर्जलयंत्रकैः ।
पंचपंचाशः सर्गः ।
लघु तेन सता किरतापगाः जलधिनेव मुहुर्विमुखीकृताः ॥ ५३ ॥ अजनि मज्जनकं जनरंजनं न खलु केवलमेवमनीदृशं ।
अपि तु चित्रसमालभनैर्भ्रमत्परिमलैरपि तज्जलरंजनं ॥ ५४ ॥ उदतरत्प्रभुणा तरुणीघटा गतिनिदाघजधर्मघनश्रमाः ।
मृतिपुष्करिणी करिणी चिरादिव महाकरिणा करिणी घटा ॥ ५५ ॥ च्युतवतं सविशेषकमाकुलं तरलदृष्टि विधूसरिताधरं । शिथिलमेखलमिष्टक चग्रहं रत इवाप पुरंधिकुलं श्रियं ॥ ५६ ॥ परिजनाहृतवस्त्र विभूषणैस्तदनुभूषित तोषितयोषितः । १ यदुनृपस्य मुदा वरयोषितः । इति ख पुस्तके |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org