________________
हरिवंशपुराणं।
पंचपंचाशः सर्गः। वनलताः कुसुमस्तवकोच्चये मधुमदालसमानसलोचनाः ।
मुखसुगंधितया मुखरालिभिवलयिताऽधृत काचन देवरं ॥ ४५ ॥ उरसि चुंबति तं कठिनस्तनी स्पृशति काचन जिघ्रति तं परा । __ मृदुकरण करे परिगृह्य तं शशिमुखं कुरुतेऽभिमुखं परा ॥ ४६ ॥ विटपकैरपि सालतमालजैर्व्यजनकैरिव काश्चिदवीजयन् ।
विदधुरस्य परास्त्ववतंसकश्रियमशोकतरोनवपल्लवैः ॥ ४७ ॥ विरचितां कुसुमैर्विविधैः सजं निजपरिश्वजनस्पृहया परा।
शिरसि मालयतिस्म गले परा कुरुवकान्यपरा शिरसेऽकिरत् ॥ ४८ ॥ इति वसंतमनंतमसौ युवा हरिवधूभिरमा प्रतिमानयत् ।
स ऋतुना तदनंतरभाविना विभुरसेव्यत सेवकवृत्तिना ॥ ४९ ॥ प्रतिदिनं वसति स्म हरिस्तदा खरनिदाघमृतुं प्रतिमानयत् ।
स्वधृतिकारिणि रेवतिके गिरौ शिशिरशीकरनिर्झरहारिणि ॥ ५० ॥ हरिवधूनिवहैरुपरोधितः प्रकृतिरागपरामपराङ्मुखः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org