________________
हरिवंशपुराणं।
पंचपंचाशः सर्गः। स सहकारसुरद्रुममंजरीरभिनवासु रतिर्महती भवेत् ॥ ३८ ॥ कुसुमभारभृतः प्रणता भ्रशं प्रणयभंगभियेव नता द्रुमाः ।
युवतिहस्तयुता कुसुमोच्चये तनुसुखं तरुणा इव भेजिरे ॥ ३९ ॥ अनतिनम्रतया निजशाखया कथमपि प्रमदाकरलब्धया ।
तरुगणः कुसुमग्रहणे भजदृढकचग्रहसौख्यमिव प्रभुः ॥ ४०॥ नवपरिभ्रमसौख्यमितस्ततः समनुभूय चिरं वनितासखः ।
युवजनः कुसुमोत्करकल्पितेऽभजत तल्पतले सुरतामृतं ॥ ४१॥ प्रतिवनं प्रतिगुल्मलतागृहं प्रतितरु प्रतिवापि विहारतः।
विषयसौख्यमसेवत सौख्यवानखिलयादवपौरजनो मधौ ॥ ४२ ॥ द्विगुणिताष्टसहस्रवधूगणैर्बहुगुणीकृतभोगनभोगतः ।
सुमधुमाधवमासममानयत्सु भगताधरमाधवचंद्रमाः॥ ४३ ॥ पतिनिदेशजुषो हरियोषितो मुषितमानवमानसवृत्तयः ।
सह विजदूरधीश्वरनेमिना तरुलतारमणीयवनेषु ताः॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org