________________
हरिवंशपुरा
६२५
पुरजनोऽथ यथार्हसुवाहनैर्विविधवस्त्रविभूषणभूषितः । हरिपुरस्सरराजवधूजनः पथि जगाम तथा शिविकादिभिः ॥ ३२ ॥ उपचितो जनताभिरसौ गिरिः श्रियमुवाह सहोपवनैस्ततः । सुरगिरेः सुरसंगावधूजनैरुपचितस्य चितस्य वनांतरैः ॥ ३३ ॥ समयनीतयथोचितवाहना वनविहारमतो जनताखिला ।
सपदि कर्तुमसापचक्रमे गिरिनितंबवनेषु यथायथं ॥ ३४ ॥ सुरभिपुष्परजः सुरभौ श्रमव्यपगमव्यसने श्वसने दिशः ।
वहति शीतलदक्षिणमारुते स्मररतिश्रम एव नृणामभूत् ।। ३५ ।। रसितचूतलतारसकोकिला कलवाः कलकंठतया गिरौ ।
Jain Education International
पंचपंचाशः सर्गः ।
जनमनांस्यपहर्तुमतिक्षमाः परिचुकूजुरिह स्मरदीपिताः ॥ ३६ ॥ मधुलिहां मधुपानजुषां कुलैः कुरुवका वकुलाः सुभगा कृताः । द्विपदपदपदभेदवतां खैः श्रयति वाश्रयमाश्रयिणो गुणान् ॥ ३७ ॥ करिकटेषु युगच्छदगंधिषु स्थितिमपास्य मदभ्रमराश्रिताः ।
४०
For Private & Personal Use Only
www.jainelibrary.org