________________
हरिवंशपुराणं ।
६२४
पंचपंचाशः सर्गः । हरिरतो बलशंबमनोभवप्रभृतिभिर्यदुभिः सह संगतैः । __ मदनजानयनं प्रतियातवान् खगकवाणपुरं स विहायसा ॥ २६ ॥ नरतुरंगरथद्विपसंकुले युधि विजित्य स तत्र खगाधिपं ।
तमनिरुद्धमुषासहितं हि तं निजनिवासपुरं हरिरानयत् ॥ २७॥ विरहदुःखमपोह्य ततोऽखिलः समनिरुद्धसमागमसंभवं । ___ अनुदिनं स्वजनो जनतासखः सुखमरंस्त सेमस्तसुखाश्रयः ।। २८ ।। निजवधूजनललितनेमिना हरिरमा नृपपौरपयोधिना ।
कुसुमितो पवनं स मधौ ययौ विदितरेवतकं रमणेच्छया ॥२९॥ पृथुभिरश्वयुतेयेयुरीश्वरा रुचिरभूषणनमिबलाच्युताः ।।
धृतसितातपवारणहारिणो वृषभतालवृहद्गरुडध्वजाः ॥ ३०॥ दशदशार्हकुमारगणावृतः करितुरंगरथैर्मदयन् जनं । __कुसुमवाणधनुर्मकरध्वजैः पथि रथेन ययौ मकरध्वजः ॥ ३१ ॥ १ ' सुखाश्रययादवः । इति क पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org