________________
हरिवंशपुराणं।
६२३
पंचपंचाशः सर्गः। निशि निनाय सखी खचरीवरं खचरलोकमनंगशरीरजं ॥ १९ ॥ प्रतिविबुध्य युवा सहसा ह्युषामुषसि रत्नमयूखचिते गृहे ।
मृदुतले शयने शयितः स्वयं स खलु पश्यति तत्र तु कन्यकां ॥ २० ॥ "नितंबधनस्तनभारिणी सुतनुमध्यवलित्रयहारिणीं ।।
सुपरिदृश्य सतां सुविहारिणी चिरमचितदंगजधारिणीं ।। २१॥ हरति केयमिह प्रवरा मनो हरिवधूरुतनागवधृरियं ।
न हि मनुष्यवधूमहमीदृशीं कचिदपीह कदाचन दृष्टवान् ।। २२ ।। पदमपीदमपूर्वमिवेक्ष्यते नयनहारिसुरेंद्रपदोपमं ।
किमिह सत्यमसत्यमिदं तु किं भ्रमति हि स्वपतां भुवनं मनः ॥ २३ ॥ इति वितर्कमतर्कितदर्शनं सुपरिवोध्यतया तमयोजयत् ।
रहसि कन्यकया कृतकंकणं विदितचित्रपदादिकलेखिका ॥ २४ ॥ अविरहं सुरतामृतपायिनोरमृतपायिवधूवरयोरिव । वरवधूवरयोः समये तयोविदितवृत्तमिदं विदितं हरेः ।। २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org