________________
हरिवंशपुराणं।
पंचपंचाशः सर्गः। बलरिपुश्च तदा चलितासनः स्वयमुपेत्य सुरैः सहसा सह । ___ कृतजिनार्चनकः कृतसंस्तवः कृतनतिः प्रययौ पदमात्मनः ॥१३॥ निजमगारमगाजिनचंद्रमाः परिवृतः क्षितिपैः ज्ञपितस्मयः ।
हरिरपि स्फुटमात्मनि शंकितः क्लिशितधार्हि जिनेश्वपि शंकते ॥१४॥ उपचरन्ननुवासरमादरात्प्रियशतैर्जिनचंद्रमसं हरिः।
प्रणयदशनपूर्वकमर्थयन् स्वयमनघगुणं जिनमुन्नतं ॥१५॥ अथ पुनर्विजयानगोत्तरे पुरवरेऽभिधया श्रुतशोणिते ।
जगति बाण इति प्रथितः खगः स खलु तिष्ठति गर्वितमानसः ॥१६॥ स्वयमुषा दुहितास्य खगेशिनो गुणकलावरणाविदितावनौ ।
मदनसुनुमुदारगुणैः श्रुतं तमनुरुद्धमधत्त चिरं हृदि ॥१७॥ सुमृदुनापि तदा मृदुनि स्वयं विनिहितेन कृतं तनुपातनं ।
मनसि संवसता कुटिलभुवः कुटिलवृत्तिरनेन निजीकता ॥१८॥ अनुदितेन परस्य महाधिना कशतरां परिपृच्छय हितां हितां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org