________________
हरिवंशपुराणं।
पंचपंचाशः सर्गः। स्ववलदर्शनतत्परराजकं चलयितुं स्वपदात्तु शशायिकं ॥६॥ हरिसभागतराजकभारतीरिति निशम्य सलीलदृशा हली।
जिनमुदीक्ष्य जगौ जिननेमिना भगवता न समोऽस्ति जगत्त्रये ॥७॥ करतलेनमहीतलमुद्धरेजलनिधीनपि दिक्षु लघु क्षिपेत् ।
प्रचलयेगिरिराजमवज्ञया ननु जिनः कतमः परमोऽमुतः ॥८॥ इति निशम्य वचोऽथ निशाम्य तं स्मितमुखो हरिरीशमुवाच सः ।
किमिति युष्मदुदारवपुर्बलं भुजरणे भगवन् न परीक्ष्यते ॥९॥ सह समाभिनयोर्द्धमुखो जिनः किमिहमल्लयुधेति तमब्रवीत् । __भुजबलं भवतोग्रज बुध्यते चलय मे चरणं सहसासनात् ॥१०॥ परिकरं परिवध्य तदोक्तितो भुजबलेन जिनस्य जिगीषया ।
चलयितुं न शशाक पदांगुलिप्रमुखमस्य नखेंदुहरिं हरिः ॥११॥ श्रमजवारिलवांचितविग्रहः प्रबलनिश्वसितोच्छसितासनः ।
बलमहो तव देव जनातिगं स्फुटमितिस्मयमुक्तमुवाच सः॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org