________________
हरिवंशपुराणं ।
Jain Education International
६२०
पंचपंचाशः सर्गः ।
पंचपंचाशः सर्गः ।
अथ स नेमिकुमार युवान्यदा धनदसंभृतवस्त्रविभूषणैः । खगनुलेपनकैरतिराजितो नृपसुतैः प्रथितैः परिवारितः ||१| समविशत्समदेभगतिर्नृपैरभिगतैः प्रणतैश्चलितासनैः ।
कुसुमचित्रसभां बलकेशवप्रभूतियादव कोटिभिराचितां ॥२॥ हरिकृताभिगतिर्हरिविष्टरं स तदलंकुरुते हरिणा सह ।
श्रियमुवाह परां तदलं तदा धृतहरिद्वयहारि यथासमं ॥ ३ ॥ सदसि सभ्यकथामृतपायिभिः प्रकटशौर्यशरीरविभूतिभिः ।
सह हरिर्नृवरैः समुपासितः क्षणमरंस्त रुचा स्थगिताखिलः ||४|| बलवतां गणनास्खथ केचन प्रतिशशंसुरतीव किरीटिनं । युधि युधिष्ठिरमुग्रवृकोदरं युगलमुद्धतमप्यपरे परान् ||५|| हलधरं बलवंतमलं तथा हरिमथोद्धृतदुर्धरभूधरं ।
For Private & Personal Use Only
www.jainelibrary.org