________________
हरिवंशपुराण।
चतुःपंचाशः सर्गः निगद्य तानेवमसौ जनार्दनः सहैव तैरेत्य तु हास्तिनं पुरं ।
सुभद्रया लब्धसुतार्यसूनवे वितीर्य राज्यं विससर्ज तान्क्रुधा ॥७१॥ समस्तसामंतकृतानुयानकः कृताभियानो यदुभिः कृतार्थकः ।
प्रविश्य कृष्णो नगरी गरीयसी निजां निजस्त्रीनिवहाद्यमानयत् ॥७२॥ सुतास्तु पांडोर्हरिचंद्रशासनादकांड एवाशनिपातनिष्ठुरात् ।
प्रगत्य दाक्षिण्यभृता सुदक्षिणां जनेन काष्ठां मथुरा न्यवेशयन् ॥७३॥ समुद्रवेलासु मनोहरासु ते लवंगकृष्णागुरुगंधवायुषु ।
सुचंदनामोदितदिक्षु दक्षिणा विजहुरुच्चैलयाद्रिसानुषु ।।७४॥ क वार्धिजंबूदुममंडिता क्षितिः । क धातकीखंडधरा दुरासदा ॥
गतागतार्दर्थगतिस्तथापि तु । प्रसिद्धयति प्राक्तनजैनधर्मतः ॥ ७५ ॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ द्रौपदीहरणाहरणदक्षिणमथुरानिवेशवर्णनो
नाम चतुःपंचाशः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org