SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । चतुःपंचाशः सर्गः । 1 आयातस्य ततस्तस्य कपिलस्यानु यादवं । साफल्यमभवद्दूराज्जिनोक्तिविधिनांबुधौ ॥ ६१॥ आगत्य कपिल पामसांप्रतविधायिनं । कोपादमरकंकेशं केशवः सोत्यतर्जयत् ॥६२॥ पूर्वेणैव क्रमेणामी लघूत्तीर्णा महार्णवं । वेलातटे विशश्राम केशवः पांडवा गताः ||६३ ॥ नौभिर्गगां समुत्तीर्य तस्थुस्ते दक्षिणे तटे । व्यपनीता च भीमेन क्रीडाशैलेन नौस्तटी ||६४ || आगतोनुपदं विष्णुः कृष्णया सहितस्तदा । अप्राक्षीत्कथमुत्तीर्णा गंगां यूयमितीमिकां ॥ ६५ ॥ वृकोदरोऽवदर्भिरिति जिज्ञासुरीहितं । स सत्यमिति मत्वा तदुत्तरीतुमिति त्वरी ॥ ६६ ॥ रथमुद्धृत्य हस्तेन साश्वसारथिमच्युतः । जानुदघ्नमिवोत्तीर्णस्तां जंघाभ्यां भुजेन च ||६७|| ततो विस्मित तुष्टास्ते त्वरयाभ्येत्य सन्नताः । शक्तिभिक्ष्यास्तुतिव्यग्रा समाश्लिष्यनधोक्षजं ॥ ६८ ॥ स्वयंकृतं नर्म ततो वृकोदरः स्वयं च विश्वश्रुतया जगाद सः । तदैष कृष्णोऽतिविरक्ततामगाददेशकालं न हि नर्म शोभते ॥ ६९ ॥ अमानुषं कर्म जगत्यनेकशः कृतं मया दृष्टवतामपि स्वयं । मदीयसामर्थ्य परीक्षणक्षमं किमत्र गंगोत्तरणे कुपांडवाः ॥७०॥ Jain Education International ६१८ For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy