________________
हरिवंशपुराणं ।
चतुःपंचाशः सर्गः । तं सा कृपावती प्राह द्रौपदी शरणागतं । गच्छ भुकुंशवेशेण शरणं चक्रवर्तिनः ॥४८॥ कृतदोषेष्वपि प्रायः प्रणतेषु नरोत्तमाः । सकृपा स्युर्विशेषेण भीरुवेषेषु भीरुषु ॥४९॥ सस्त्रीकः स्त्रीकृताकारः श्रुत्वा पार्थांगनाग्रणीः । प्रविष्टः शरणं गत्वा विष्टरश्रवसं नृपः ॥५०॥ दत्वाऽसावभयं तस्य शरणागतभीहरः । विससर्ज निजं स्थानं स्थाननामादिभेदिनं ॥५१॥ कृष्णा कृष्णपदं नत्वा क्षेमदानपुरस्सरं । प्रायुंक्त विनयं योग्यं पंचस्वपि यथाक्रमं ॥५२॥ आश्लिष्य दयितां पार्थो विरहव्यथितां ततः । स्वयं प्रस्वेदिहस्ताभ्यां तद्वेणीमुदमोचयत् ॥५३॥ स्नात्वा भुक्त्वा कृतातिथ्या मनसा पांडवैः सह । निवेद्य निजदुःखं सा मुमोचासः समं ततः।।५४॥ रथमारोप्य तां वाधों दध्यौ शंखं निजं हरिः । आपुपूरे दिशां चक्रं चक्रिशंखस्य निस्वनः।।५५।। कपिलो वासुदेवोऽपि तदा चंपावहिःस्थितं । जिनं नंतुं गतोऽपृच्छत-श्रुत्वा तं कंपितक्षिति।।५६॥ केनायं पूरितः शंखो नाथ ! मत्समशक्तिना । न चाध मादृशोऽस्तीह भारते मदधिष्ठिते ॥५७॥ जिनेन कथिते तत्वे प्रश्नतोत्तरवादिना । दिक्षुस्तं यियासुः स भाषितो धर्मचक्रिणा ॥५८॥ नान्योन्यदर्शन जातु चक्रिणां धर्मचक्रिणां । हलिनां वासुदेवानां त्रैलोक्यप्रतिचक्रिणां ॥५९॥ गतस्य चिह्नमात्रेण तव तस्य च दर्शनं । शंखास्फोटनिनादैश्च रथध्वजानिरीक्षणैः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org