________________
हरिवंशपुराणं ।
६१६
चतु पंचाशः सर्गः ।
शीलमात्रमहाश्वासा दीर्घनिश्वासमोचिनी । सत्सु बंधुषु युष्मासु कथमास्ते रिपोर्ग्रहे ||३५|| लब्ध्वेति द्रौपदीवार्ता हरिप्रभृतयस्तदा । शशंसुर्नारदं हृष्टाः सापकारोपकारिणां ॥ ३६ ॥ द्रौपदीहरणं कृत्वा क प्रयाति स दुष्टधीः । प्रेषयामि दुराचारं मृत्यवे मृत्युकांक्षिणां ||३७| इति द्विष्टो द्विषे कृष्णः कृष्णामानेतुमुद्यमी । दक्षिणो दक्षिणांभोधेस्तटं ससकटो गतः ||३८|| लवणाधिपतिं देवं सुस्थितं नियमस्थितं । आराध्य पांडवैः सार्धं धातकीखंडवीप्सया ||३९|| देवेन नीयमानः सन् रथैः पभिः सपांडवः । द्रागुल्लंघ्याब्धिमापत्तद्धात की खंडभारतं ||४०|| पुर्यास्तेऽमरकंकाया बहिरुद्यानवर्तिनः । कृष्णाद्याः पद्मनाभाय तन्नियुक्तैर्निवेदिताः ॥ ४१ ॥ चतुरंगवलं तस्य पुर्या निर्यातमुद्धतं । भ्रातृभिचभिर्युद्धे भनं नगरमाविशत् ॥ ४२ ॥ नृपः स नगरद्वारं पिधाय सनयः स्थितः । अलंघ्ये पांडुपुत्राणां ततश्चक्री स्वयं रुषा ||४३|| विभेद पादनिर्घातैर्निर्घातैरिव नागरं । बहिरंतर्भुवं विश्वां भ्रश्यत्प्राकारगोपुरां || ४४ ॥ पतत्प्रासादशालौघैर्भ्राम्यद्मत्तेभवाजिनि । विप्रलाप महारावे पुरे जाते जनाकुले ||४५ ॥ स पौरांतःपुरो राजा निरुपायो भयाकुलः । प्रविष्टः शरणं द्रोही द्रौपदीं द्रुतमानतः ॥ ४६ ॥ क्षम्यतां क्षम्यतां सौम्ये ! देवि ! देवतया समे । दाप्यतामभयं मेऽद्य सवाच्यस्य पतित्रते ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org