________________
हरिवंशपुराणं।
चतुःपंचाशः सर्गः। भ्रातरौ रामकृष्णौ मे भर्ता पार्थो धनुर्धरः । भर्तुर्येष्ठौ महावीरावनुजौ च यमोपमौ ॥२२॥ जलस्थलपथैस्तेषामनिवारितगोचराः। विचरंति भुवं सर्वा मनोरथरया रथाः ॥२३॥ क्षेमं यदि नृपैस्तेभ्यो वांछसि त्वं सबांधवः । तद्विसर्जय मां शीघ्रमाशीविषवधूपमां ॥२४॥ इत्युक्तोन्यनिवृत्तेच्छः स्वग्राहं नैष मुंचति । यदा तदा दृढा प्राह प्रत्युत्पन्नमतिः सती ॥२५॥ मासस्याभ्यंतरे भूप यदीह स्वजना मम । नागच्छंति तदा त्वं मे कुरुष्व यदभीप्सितं ॥२६॥ तथास्त्विति निगद्यैतां पद्मनामोऽनवर्तयत् । सांतःपुरः प्रियशतैर्विलोभनपरः स्थितः ॥२७॥ विस्रब्धा भयमुज्झित्वा स्थित्वा साश्रुविलोचना । विनिहारा निराहारा पत्युः पंथानमीक्षते।॥२८॥ अदृश्यायामकस्मात्तु तस्यां पांडवपंचकं । किकर्तव्यतया मृढमभूदत्यंतमाकुलं ।।२९।। निरुपायास्ततो गत्वा चक्रिणे ते न्यवेदयत् । दुःखी स यादवः सोत्र क्षेत्रेश्वश्रावयत्तदा ॥३०॥ क्षेत्रांतरहृतां मत्वा केनचित्क्षुद्रवृत्तिना । तत्प्रवृत्तिपरिप्राप्तौ यादवास्ते सतत्पराः ॥३१॥ आस्थानस्थितमागत्य कदाचिनारदो हरिं । पूजितो यदुलोकस्य जगादेति प्रियोदितः ॥३२॥ ईक्षिता धातकीखंडे कृष्णा कृष्णकृशांगिका | पुर्यामममरकंकायां पद्मनाभस्य समनि ॥३३॥ अनारतगलद्वाष्पधाराविलविलोचना । सा तस्यांतःपुरस्खीभिः सादराभिरुपास्यते ॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org