________________
हरिवंशपुराणं।
६१४
चतुःपंचाशः सर्गः । तेनांतःपुरमात्मीयमात्मीयस्यास्य दर्शितं । पृष्टश्च दृष्टमीदृशं स्त्रीरूपं कचिदित्यसौ ॥९॥ पर्यस्तं मन्यमानोयं पायसेऽभिमतं धृतं । द्रौपदीरूपलावण्यं लोकातीतमवर्णयत् ॥१०॥ तं द्रौपदीमयं ग्राह्यं ग्राहयित्वा स नारदः । द्वीपक्षेत्रपुरावासकथनः कापि यातवान् ॥११॥ आराधयदसौ तीव्रतपसा द्रौपदीप्सया । सुरं संगमकाभिख्यं पातालांतर्वासिनं ॥१२॥ आराधितेन देवेन पद्मनाभपुरी निशि । सा सुप्तव समानीता पार्थस्य वनिता प्रिया ॥१३॥ निवेदिता सुरेणासौ भवनोद्यानवर्तिनी । अद्राक्षीद् द्रौपदीं गत्वा साक्षादिव सुरांगनां ॥१४॥ प्रबुद्धा सर्वतोभद्रे शयने सा पुनः पुनः । स्वपित्येव विनिद्रापि स्वप्नोयमिति शंकिनी ॥१५॥ विनिमीलितनेत्राया ज्ञात्वाकूतमसौ नृपः । शनैः समीपमाश्रित्य वदतिस्म प्रियंवदः ॥१६॥ आयताक्षि निरीक्षस्व नैष स्वप्नो घटस्तनि । द्वीपोयं धातकीखंडः पद्मनाभस्त्वहं नृपः ॥१७॥ नारदेन समाख्यातं तव रूपं मनोहरं । मयाराघितदेवेन त्वं मदर्थमिहाहता ॥१८॥ श्रुत्वा चकितचित्ता सा किमेतदितिवादिनी । अचिंतयदहो दुःखं दुरंतं मे समागतं ॥१९॥ पार्थदर्शनपर्यंतमाहारत्यागमात्मनि । कृत्वा पार्थविमोच्यं च वेणीबंधं दधार सा ॥२०॥ द्रौपदीशीलनिर्भेदवज्रपाकारमध्यगा । पद्मनाभमुवाचेत्थं वाच्यवानं मनोभुवा ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org