________________
हरिवंशपुराण
६१३
चतु पंचाशः सर्गः। हिमशिशिरवसंतग्रीष्मवर्षासरत्सु प्रिययुवतिसहाया यादवा द्वारिकायां ।
जिनमतकृतधर्मा योग्यदेशेषु योगैरविरतरतिरागा रेमिरे सार्वभौमाः ॥५४॥ इति “अरिष्टनेमि पुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ कृष्णविजयवर्णनो नाम त्रिपंचाशः सर्गः ।
चतुःपंचाशः सर्गः। श्रेणिकेन पुनःपृष्टश्चेष्टितं पांडवोद्भवं । संदेहध्वांतघातार्को गौतमः स जगौ गणी ॥१॥ स्थितेषु हास्तिनपुरे पांडवेषु यथाक्रमं । निजस्वामिपरिप्राप्त्या तुतुषुः कुरवोऽधिकं ॥२॥ सौराज्ये पांडुपुत्राणां वर्तमाने सुखावहे । सर्वे वर्णाश्रमा राष्ट्र धार्तराष्ट्रान्विसस्मरुः ।।३।। अखंडितगतिः प्राप्तः कदाचित्पांडवास्पदं । नारदचंडचित्तोसौ प्रकृत्या कलहप्रियः॥४॥ आदरेण स तैदृष्टः प्रविशन्निस्सरन्नपि । व्यग्रयालंकृतौ तन्व्या द्रौपद्या तु न लक्षितः ॥५॥ ततो जज्वाल कोपेन तैलासंगादिवानलः । सज्जनावसरज्ञो न प्राणी सन्मानदुःखितः ॥६॥ स तदुःखविधानाय कृतेच्छः कृतनिश्चयः । धातकीखंडपूर्वाधभारतं प्रति खे ययौ ॥७॥ अंगेश्वमरकंकायां पुरि शंकाविवर्जितः । स्त्रीलोलं पद्मनाभाख्यं साभिख्यं दृष्ट्वानृपं ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org