SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ६१२ त्रिपंचाशः सर्गः। श्रीहस्तिनपुरं प्रीत्या पांडवेभ्यः प्रियं हरिः । कोशलां रुक्मनाभाय रुधिरात्मजसूनवे ॥४६॥ भूचरान् खेचरान्भूपानौचित्येन समागतान् । स्थानेषु स्थापनां चक्रे चक्रपाणिर्यथायथं ॥४७॥ विसृष्टाश्च यथास्थानं यातास्ते पांडवादयः । आरेमुरकायां तु यादवास्त्रिदशा यथा ॥१८॥ चक्रं सुदर्शनमदृष्टसुखं रिपूणां शार्ङ्ग धनुर्ध्वननधूतविपक्षपक्षं । __ सौनंदकोपि च गदापि च कौमुदी सा मोघेतरा रिपुषु शक्तिरमोधमूठा ॥४९॥ शंखश्च शंखखचितस्य सपांचजन्यः श्रीकौस्तुभो मणिरसावनणुप्रतापः । __रत्नानि सप्त महितानि हरेहितानि व्याभांति दिव्यमयमूर्तियुतानि तानि ॥१०॥ दिव्यायुधं हलमभादपराजिताख्यं दिव्या गदा मुसलशक्त्यवतंसमालाः । रत्नानि पंच महितानि हलायुधस्य हेलाविधूतरिषुमंडलविभ्रमस्य ॥५१॥ राज्ञां स षोडशसहस्रगुणैर्गुणज्ञैर्गण्यैर्गुणी प्रणतमूर्धभिरर्धचक्री । ___ भक्तैस्तदर्धगुणनैर्गणबद्धदेवैराज्ञाकरैः सुखमसेवत सेव्यमानः ॥५२॥ शार्गी स षोडशसहस्रवरांगनानां देवांगनाललितविभ्रमहारिणीनां । संधैः क्रमेण रतिघूपनिषेवितांगो रेमे तदर्धगणनैस्तु हली सुदाः ।।१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy