________________
हरिवंशपुराणं।
६११
त्रिपंचाशः सर्गः । यतस्तस्यामुदारायामनेका ऋषिकोटयः । सिद्धास्ततः प्रसिद्धात्र लोके कोटिशिला शिला ॥३३॥ शिलायां तत्र कृत्वादौ पवित्रायां बलिकियां । दोामुत्क्षिपतिस्मासौ तां विष्णुश्चतुरंगुलं॥३४॥ सा शिला योजनोच्छाया समायोजनविस्तृता । अर्धभारतवर्षस्थदेवतापरिरक्षिता ॥३५॥ उद्घाहुनोर्द्धमुत्क्षिप्ता त्रिपृष्ठेन शिला पुरा । मूर्द्धदघ्नं द्विपृष्ठेन कंठदन्नं स्वयंभुवा ॥३६॥ वक्षोद्वयमुत्क्षिप्ता च पुरुषोत्तमचक्रिणा | क्षिप्ता पुरुषसिंहेन हृदयावधिहारिणी ॥३७॥ पुंडरीकः कटीमात्रमूरुदनं हि दत्तकः । जानुमात्रं च सौमित्रिः कृष्णोऽधाचतरंगुलं ॥३८॥ प्रधानपुरुषादीनां सर्वेषां हि युगे युगे । भिद्यते कालभेदेन शक्तिः शक्तिमतामपि ॥३९॥ शिलाबलेन विज्ञातो महाकायबलो बलैः । सानुयातो ययौ चक्री द्वारिका प्रतिबांधवैः॥४०॥ प्रविष्टश्च विशिष्टानामाशीभिरभिनंदितः। द्वारिका द्वारकांतां स कृतशोभां दिवं यथा ॥४१॥ यथायोग्यं सभोग्यास्ते भूनभोयानभूभृतः । प्रासादेषु स्थिताः सुस्था द्वारिकायां यथाविधि॥४२॥ अभिषिक्तौ ततः सर्वैर्भूपै चरखेचरैः । भरतार्थविभुत्वे तौ प्रसिद्धौ रामकेशवा ॥४३॥ संस्थाप्य सहदेवं स चक्री राजगृहे नृपं । मागधानां चतर्भागं ददौ तस्मै गतस्मयः ॥४४॥ उग्रसेनसुतायादाद्वराय मथुरां पुरीं । स महानेमये शौर्यनगरं प्रददौ नृपः ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org