SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ६१० हरिवंशपुराणं। त्रिपंचाशः सर्गः। गिरस्ता मरुतां श्रुत्वा ततस्ते रिपुखेचराः । त्रस्ताः शरणमायाता वसुदेवमितोमुतः ॥२०॥ वसुदेवस्य पुत्राणां शंबप्रद्युम्नवीरयोः । वसुदेवमुपाश्रित्य कन्या विद्याधरा ददुः ॥२१॥ वयं तु वसुदेवोक्ता युष्मदंतिकमागताः । क्षेमोदंतं तथैवास्य निवेदायतुमागताः ॥२२॥ नानाविद्याधराधीशा नानाप्रभृतपाणयः । आनकेन सहायांति ते नारायणभक्तितः ॥२३॥ यावद्धनवती तेषामितीष्टं कथयत्यसौ । तावद्विमानसंघातैः खेटानामावृतं नमः ॥२४॥ अवतीर्य विमानेभ्यो वसुदेवानुयायिनः । वासुदेवं बलोपेतं प्रणेमुः प्राभृतान्विताः ॥२५॥ अभ्युत्थाय ततो भक्तौ पितरं रामकेशवौ । प्रणेमतुरनेनापि तावाश्लिष्याभिनंदितौ ॥२६॥ ज्येष्ठानपूजयत्सर्वान्प्रणम्यानकदुंदुभिः । प्रद्युम्नाद्या यथायोग्यं प्रणेमुगुरुवांधवान् ॥२७॥ यथाक्रमं नभोयानाः केशवेन बलेन च । प्रतिसन्मानिताः सर्वे सफलं जन्म मेनिरे ॥२८॥ समस्तबलसंयुक्तौ प्रतीची बलकेशवौ । प्रयाती प्रमदापूर्णौ पूर्णसर्वमनोरथौ ॥२९॥ आनंदे ननदुर्यत्र यादवा मागधे हते । आनंदपुरमित्यासीत्तत्र जैनालयाकुलं ॥३०॥ ततश्चक्रमहं कृत्वा सर्वरत्नान्वितो हरिः । दक्षिणं भारतं जिग्ये सदेवासुरमानुषं ॥३१॥ वषैरष्टाभिरिष्टाथैर्सेवमानो नु वासरं । जितजेयो ययौ कृष्णः स कोटिकशिलां प्रति ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy