________________
हरिवंशपुराणं ।
६०९
त्रिपंचाशः सर्गः ।
जग्मुरद्य कृतार्था वो गुरुदत्ताशिषोऽखिलाः । सुतेन मागधो ध्वस्तो यच्च पित्रा नभश्वराः ||७|| सपुत्रनप्तृकः क्षेमी क्षेमिणां प्रणयी स वः । यथाज्येष्ठं नमत्यंधीन् सुतानाश्लिषयत्यपि ॥८॥ इति श्रुत्वा प्रमोदेन ते प्रकृष्टतनूरुहाः । पप्रच्छुः खेचरास्तेन विजिता कथमित्यमूः || ९ || ऊचे धनत्रती देवी वसुदेवहितोद्यताः । श्रूयतां वसुदेवस्य रणे सामर्थ्यमित्यसौ || १० ॥ गत्वा स विजया श्वसुरस्याल पूर्वकैः । एकीभूय खगैः खेटानरुणद्रणदक्षिणः || ११ ॥ समग्रबलयुक्तांस्ते ततस्तेन पुरस्कृताः । रणे मागधसाहाय्यं विरहय्य युधि स्थिताः ||१२|| बलद्वयस्य संपाते जाते तत्र ततोन्वभूत् । प्रजानां प्रलयाशंका भयव्याकुलचेतसा ||१३|| द्वंद्वयुद्धे प्रवृत्तेऽतो नृवाजिरथ हस्तिनां । अन्योन्यं न्यायतोऽन्योन्यमवधीत्सैन्ययोर्द्वयं ॥ १४॥ आनन सपुत्रेण प्रनेनाभिमानिना । तथा शंबेन पक्षेण खेचराणां जनेन च ॥१५॥ हेतिज्वालावहैरेभिः शत्रुभूभृत्कदंबकं । भस्मीकुर्वद्भिरुद्भूतैलोदवानलायितं ||१६|| अत्रांतरे सुरैस्तुष्टैस्तस्मिन्नुत्कृष्टसंगरे । नवमो वासुदेवो भूद्रसुदेवस्य नंदनः ||१७|| निहतश्च जरासंधस्तच्चक्रेणैव संयुगे । प्रतिशत्रुगुणद्वेषी वासुदेवेन चक्रिणा ||१८|| इत्युक्त्वा वसुदेवस्य रथस्योपरि पातिता । नानारत्नमयीवृष्टिः कौमुदीव दिवः सुरैः ॥१९॥
R
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org