SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ६०८ त्रिपंचाशः सर्गः। निरीक्ष्य मधुसूदनेन युधि भारते मागधं हतं दिनकृदंबुधावकृत मज्जनं सज्जनः । शुचा प्रकटरोदनादिव दधन्मुखं दिग्मुखर्जपाकुसुमपाटलं त्विव जलांजलेर्दित्सया ॥९२॥ व्रजति खलु जंतवः कृतशुभोदये संपदा प्रचंडपुरुषांतराक्रमणकारिणी तत्क्षये । मजेद्विपदमप्यतो जिनमते जना निर्मलं कुरुध्वमपुनर्भवप्रभवहेतुभूत तपः ॥९३॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ जरासंधवधवर्णनो नाम द्वापंचाशः सर्गः । त्रिपंचाशः सर्गः। अथाभ्युदयपमभ्येते हरिदश्वे हरावेव । परालंध्यमहत्तेजः प्रसाधितहरिन्मुखे ॥१॥ कृतेषु व्रजभंगेषु प्रवीराणामितोमुतः । संस्कारेषु तथान्येषु जरासंधादिभूभृतां ॥२॥ आस्थाने ते यथास्थानं समुद्रविजयादयः । राजानो हरिणासीना वसुदेवागमोन्मुखाः ॥३॥ किमर्थ क्षेमवार्ता नो नाद्याप्यानकदुंदुभेः । सपुत्रनप्तकस्याद्रिं गतस्यति हि खैचरं ॥४॥ इत्यन्योन्याश्रितालापास्ते नृपा यावदासते । धेनुवत्ससमस्वांता बालवृद्धपुरःसराः ॥५॥ तावदुद्योतिताशास्ता विद्याधर्यः खविद्युतः । वेगवत्या सहागत्य नागवध्वा कृताशिषः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy