________________
हरिवंशपुराणं ।
६०७
द्वापंचाशः सर्गः ।
अपकारे प्रवृत्तस्त्वमस्माकं यद्यपि स्फुटं । तथापि मृष्यतेस्माभिर्नतिमात्रप्रसादिभिः ॥७९॥ तथोदितः स तं प्राह प्रसभं गर्भनिर्भरः । चक्रं नालातचक्रं मे किमनेन स्मयं गतः ||८०|| अथवा दृष्ट्रकल्याणः स्वल्पेनाल्पः स्मयीभवेत् । न महान् दृष्ट्रकल्याणः सस्मयो महतामपि ॥ ८१ ॥ सह दशाईचक्रेण चक्रेणानेन च त्वकं । नृपचक्रेण त्वामाशु समुद्रे प्रक्षिपामि भोः ॥८२॥ इत्युक्ते कुपितचक्री चक्रं प्रभ्राम्य सोऽमुचत् । प्रभृतस्तेन गत्वारं वक्षोभित्तिरभिद्यत || ८३ || आगतं च पुनः पाणिं चक्रपाणेः क्षणेन तत् । प्रयुक्तस्य कृतार्थस्य कालक्षेपो हि निष्फलः ॥ ८४ ॥ पांचजन्यं हरिः शंखं दध्मौ यदुमनोहरं । नेमिपार्थबलाग्रण्यो गण्या दध्युर्निजाबुजं ॥८५॥ वादित्रध्वनयो धीरा क्षुभिताब्धिस्वनोपमाः । प्रभूता प्रादुरभवंस्तथैवाभयघोषणाः ॥८६॥ स्वसैन्यं परसैन्यं च संन्यस्तस्वभयं ततः । अनुक्तमप्यभूदेत्य वासुदेवस्य शासने || ८७॥ नृपो दुर्योधनो द्रोणस्तथा दुःशासनादयः । निर्विण्णा विदुरस्यांते जैनीं दीक्षां प्रपेदिरे ॥ ८८ ॥ कर्णः सुदर्शनोद्याने दीक्षां दमवरांतिके । जग्राह रणदीक्षांते निर्वाणफलदायिनीं ॥८९॥ तत्सुवर्णाक्षरं यत्र कर्णकुंडलमत्यजत् । कर्णः कर्णसुवर्णाख्यं स्थानं तत्कीर्तितं जनैः ॥९०॥ गतो मातलिरापृच्छय सेवेयं स्वामिनोंऽतिकं । यादवाः शिविरस्थानं निजं जग्मुः सपार्थिवाः ॥ ९१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org