________________
हरिवंशपुराणं ।
द्वापंचाश: सर्ग |
I
व्योम्नि दुंदुभयो नेदुरपतन्पुष्पवृष्टयः । नवमो वासुदेवोयमिति देवा जगुस्तदा ||६७ || सुगंधिवायुभिः सार्धमनुकूलैरलं तदा । हृदयैर्यदुवीराणां समुच्छ्रतिमायुधं ॥ ६८ ॥ चक्रहस्त हरिं दृष्ट्वा संयुगे मगधाधिपः । दध्यौ चक्रपरावृत्तिरन्यथेयमभूदिति ॥६९॥ चक्रविक्रमसंभारसमाक्रांत दिगंतरः । त्रिखंडाधिपतिश्चंडो जातः खंडित पौरुषः ॥७०॥ चतुरंगबलं कालः पुत्रा मित्राणि पौरुषं । कार्यकृत्तावदेवात्र यावदैवबलं परं ॥ ७१ ॥ देवे तु विकले कालपौरुषादिर्निरर्थकः । इति यत्कथ्यते विद्भिस्तत्तथ्यमिति नान्यथा ||७२ || गर्भेश्वरोहमन्येषामलंघ्यो महतामपि । प्रारब्धो जेतुमल्पेन गर्भादिक्लेदिना कथं ॥ ७३ ॥ मज्जेतापि यदीदृक्षो दृष्टोऽत्र विधिना ततः । किमर्थ क्लेशितो बाल्ये गोकुले धिग्विधीहितं ॥ ७४ ॥ arriad ai air धैर्यविलोपिनीं । वंधकीमिव धिग्लक्ष्मीं परसंक्रमकाक्षिणीं ॥ ७५ ॥ ध्यायन्नित्यादि निश्चित्य मृत्युकालमुपस्थितं । प्रकृत्यैव जरासंधः कृष्णमित्याह निर्भयः ॥७६॥ क्षिप चक्रं किमर्थं त्वं गोप ! कालमुपेक्षसे । कालस्योत्क्षेपको मुग्ध ! दीर्घसूत्री विनश्यति ॥७७॥ इत्युक्तस्तं प्रति प्राह प्रकृत्या प्रश्रयी हरिः । चक्रवर्त्त्यहमुद्भूतः शासने मम तिष्ठ भोः ॥७८॥ १ वेश्या ।
६०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org